ॐ कलशस्य मुखे विष्णुः, कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा, मध्ये मातृगणाः स्मृताः॥१॥
कुक्षौ तु सागराः सर्वे, सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यर्जुवेदः, सामवेदो ह्यथर्वणः॥२॥
अंगैश्च सहिताः सर्वे, कलशन्तु समाश्रिताः ।
अत्र गायत्री सावित्री, शान्ति - पुष्टिकरी सदा॥३॥
त्वयि तिष्ठन्ति भूतानि, त्वयि प्राणाः प्रतिष्ठिताः ।
शिवः स्वयं त्वमेवासि, विष्णुस्त्वं च प्रजापतिः॥४॥
आदित्या वसवो रुद्रा, विश्वेदेवाः सपैतृकाः ।
त्वयि तिष्ठन्ति सर्वेऽपि, यतः कामफलप्रदाः॥५॥
त्वत्प्रसादादिमं यज्ञं, कर्तुमीहे जलोद्भव ।
सान्निध्यं कुरु मे देव! प्रसन्न भव सर्वदा॥६॥