लक्ष्मीर्मेधा धरापुष्टिः, गौरी तुष्टिः प्रभा धृतिः । एताभिः पाहि तनुभिः, अष्टाभिर्मां सरस्वति॥१॥
सरस्वत्यै नमो नित्यं, भद्रकाल्यै नमो नमः । वेद वेदान्तवेदाङ्ग, विद्यास्थानेभ्य एव च॥२॥
मातस्त्वदीयपदपंकज - भक्तियुक्ता, ये त्वां भजन्ति निखिलानपरान्विहाय । ते निर्जरत्वमिह यान्ति कलेवरेण, भूवह्रिवायुगगनाम्बुविनिर्मितेन॥३॥