(1) * पवित्र करण *
इस मन्त्र से हाथ में जल लेकर मस्तक तथा शिर पर छिड़कें।
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।
(2) * आचमनम् *
निम्नलिखित मन्त्रों से तीन बार आचमन करें—
ॐ अमृतोपस्तरणमसि स्वाहा ।।1।।
ॐ अमृतापिधानमसि स्वाहा ।।2।।
ॐ सत्यं यशः श्रीर्मयि श्रीः श्रयतां स्वाहा ।।3।।
(3) * शिखा बन्धन *
निम्न मन्त्र पढ़कर शिखा में गांठ लगावें ।
चिद्रूपिणि महामाये दिव्यतेजः समन्विते ।
तिष्ठ देवि शिखा मध्ये तेजोवृद्धिं कुरुष्व मे ।।
(4) * प्राणायाम मन्त्र *
निम्न मंत्र पढ़कर कम से कम एक बार प्राणायाम करें—
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वः ॐ ।। स्वरोम्
————
(5) * न्यासः *
तत्पश्चात् बायें हाथ की हथेली में थोड़ा सा जल लेकर दाहिने हाथ की अंगुलियों से, निम्न मन्त्रों द्वारा शरीर के अलग-अलग अंगों को स्पर्श कीजिए और साथ ही यह भावना कीजिए कि मेरे ये सब अंग-प्रत्यंग शक्तिशाली, पवित्र और महा तेजवान हो रहे हैं।
ॐ वाङ्म आस्येऽस्तु । से मुख को ।
ॐ नसोर्मेप्राणोऽस्तु । से नासिका के दोनों छिद्रों को ।
ॐ अक्ष्णोर्मे चक्षुरस्तु । से दोनों नेत्रों को ।
ॐ कर्णयोर्मे चक्षुरस्तु । से दोनों कानों को ।
ॐ वाह्वोर्मे बलमस्तु । से दोनों बाहों को ।
ॐ ऊर्वोर्मेऽओजोस्तु । से दोनों जंघाओं को ।
ॐ अरिष्टानिमेऽङ्गानि मनूस्तन्वा में सह सन्तु ।
से सब शरीर पर जल छिड़कें ।
(6) * पृथ्वी पूजन *
निम्न मन्त्र पढ़कर पृथ्वी पर जल, अक्षत, पुष्प छोड़ें—
ॐ पृथ्वि ? त्वया धृता लोका देवि ! त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।।
(7) * कलश पूजनम् *
निम्न मन्त्र पढ़ते हुए रोली, अक्षत, चन्दन, पुष्प, धूप, नैवेद्य आदि से कलश का पूजन करना चाहिए।
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तत्रस्थितो ब्रह्मा मध्ये मातृगणाः स्मृता ।।1।।
कुक्षौ तु सागरासर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोथ यजुर्वेदो सामवेदोह्थर्वणः ।।2।।
अंगैश्च सहिता सर्वे कलशन्तु समाश्रितः ।
अत्र गायत्री सावित्री शान्तिः पुष्टि करी सदा ।।3।।
त्वयि तिष्ठन्ति भूतानि वयि प्राणाः प्रतिष्ठिताः ।
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।।4।।
आदित्या वसवो रुद्रा विश्वेदेवाः स पैतृकाः ।
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।।5।।
त्वत्प्रसादादिमां यज्ञं कर्तुमीहे जलोद्भवः ।
सान्निध्यं कुरुमे देव ! प्रसन्नो भव सर्वदा ।।6।।
————
(8) * देव पूजनम् *
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुरेव महेश्वरः ।
गुरुरेव परब्रह्म तस्मै श्री गुरुवेनमः ।।1।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरुवेनमः ।।2।।
ॐ आयातु वरदे देवि अक्षरे ब्रह्मवादिनी ।
गायत्रिच्छन्दसां माता ब्रह्मयोनिर्नमोस्तुते ।।3।।
अभीप्सितार्थसिद्ध्यर्थ पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मैगणाधिपतये नमः ।।4।।
सर्वमंगलमांगल्ये शिवेसर्वार्थसाधिके ।
शरण्ये त्र्यंबिके गौरि नारायणि नमोस्तुते ।।5।।
शुक्लाम्बरधरंदेवं शशिवर्ण चतुर्भुजम् ।
प्रसन्नवदनंध्यायेत्सर्व विघ्नोपशान्तये ।।6।।
सर्वदा सर्वकार्येषु नास्ति तेषाममगंलम् ।
येषां हृदिस्थोभगवान्मंगलायतनो हरिः ।।7।।
विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् ।
सरस्वतीं प्रणम्यादौ शान्तिकार्यार्थसिद्धये ।।8।।
मंगलं भगवान् विष्णुमंगलं गरुणाध्वजः ।
मंगलं पुण्डरीकाक्षोमंगलायतनो हरिः ।।9।।
त्वं वैं चतुर्मुखो ब्रह्मा सत्यलोकपितामह ।
आगच्छ मण्डले चास्मिन्मम सर्वार्थसिद्धये ।।10।।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् ।।
लक्ष्मीकान्तं कमलनयनं योगभिर्ध्यानगम्यं ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।11।।
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणम् ।
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ।।
वन्दे सूर्यशशंकवह्विनयनम् वन्दे मुकुन्दप्रियम् ।
वन्दे भक्त जनाश्रयं च वरदं वन्दे शिवं शंकरम् ।।12।।
ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टि वर्धनम् ।
उर्वारुकमि बन्धानान्मृत्योर्मुक्षीय माऽमृतात् ।।13।।
दुर्ग ! स्मृता हरसि भीतिमशेष जन्तोः
स्वस्थैःस्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ।।14।।
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् ।
वीणापुस्तकधारिणीममयदां जाड्यान्धकारापहाम् ।।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।25।
ॐ आर्द्रा पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् ।
सूर्यांहिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।16।।
ॐ कालिकां तु कलातीतां कल्याणहृदयां शिवाम् ।
कल्याणजननीं नित्यं कल्याणीं पूजयाम्यहम् ।।17।।
विष्णुपादाब्जसम्भूते गंगे त्रिपथगामिनि ।
धर्मद्रवेति विख्याते पापं में हर जाह्नवि ।।18।।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितसस्तथा ।
आगच्छन्तु पवित्राणि पूजाकाले सदामम ।।19।।
ब्रह्मामुरारीस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः सर्वेग्रहाः शांतिकरा भवन्तु ।।।20।
ॐ गौरी पद्मा शची मेधा सावित्री विजयाजया ।
देवसेना स्वधा स्वाहा मातरोलोक मातरः ।।21।।
हृष्टिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवताः ।
गणेशेनाधिकाह्येता वृद्धौ पूज्याश्चषोडश ।।22।।
कीर्तिर्लक्ष्मीर्धृतिर्मधा सिद्धिः प्रज्ञासरस्वती ।
मांगल्येषु प्रपूज्याश्च सप्तैता दिव्यमातरः ।।23।।
नागपृष्ठसमारूढ़ं शूलहस्तं महाबलम् ।
पातालनायकं देवं वास्तुदेवं नमाम्यहम् ।।24।।
ॐ क्षेत्रपालान्नमस्यामि सर्वारिष्टनिवारकान् ।
अस्य यागस्यसिध्यर्थं पूजयाराधितान् मया ।।25।।
ॐ सिद्धि बुद्धि सहित श्रीमन्महागणाधिपतयेनमः ।
ॐ लक्ष्मी नारायणाभ्यान्नमः ।
ॐ उमामहेश्वराभ्यान्नमः ।
ॐ वाणीहिरण्यगर्भाभ्यान्नमः ।
ॐ शचीपुरन्दराभ्यान्नमः ।
ॐ मातापितृचरणकमलेभ्यो नमः ।
ॐ कुलदेवताभ्यो नमः ।
ॐ इष्टदेवताभ्यो नमः ।
ॐ ग्रामदेवताभ्यो नमः ।
ॐ स्थानदेवताभ्यो नमः ।
ॐ वास्तुदेवताभ्यो नमः ।
ॐ सर्वेभ्यो देवेभ्यो नमः ।
ॐ सर्वेभ्यो प्राणेभ्यो नमः ।
ॐ सर्वेभ्यो तीर्थेभ्यो नमः ।
ॐ एतत्कर्मप्रधान श्री गायत्री देव्यै नमः ।
ॐ पुण्यैपुण्याहं दीर्घमायुरस्तु ।
(9) * षोडषोपचार पूजन *
ॐ सर्वेभ्यो देवेभ्यो नमः । आवाहयामि स्थापयामि ।।1।।
आसनं समर्पयामि ।।2।।
पाद्यं समर्पयामि ।।3।।
अर्घ्यं समर्पयामि ।।4।।
आचमनम् समर्पयामि ।।5।।
स्नानम् समर्पयामि ।।6।।
वस्त्रम् समर्पयामि ।।7।।
यज्ञोपवीतं समर्पयामि ।।8।।
गन्धम् समर्पयामि ।।9।।
पुष्पाणि समर्पयामि ।।10।।
धूपम् समर्पयामि ।।11।।
दौपम् समर्पयामि ।।12।।
नैवेद्यं समर्पयामि ।।13।।
अक्षतान् समर्पयामि ।।14।।
ताम्बूलपुंगीफलानि समर्पयामि ।।15।।
दक्षिणां समर्पयामि ।।16।।
सर्वाभावे अक्षतान् समर्पयामि ।।17।।
ततो नमस्कारं, करोमि ।
नमः सर्व हितार्थाय जगदाधार हेतवे ।
साष्टांगोऽयं प्रणामस्ते प्रयत्नेन मयाकृतः ।।
नमोस्त्वनन्ताय सहस्रमूर्तये । सहस्रपादाक्षि शिरोरुवाहवे ।
सहस्र नाम्नेपुरुषाय शाश्वते सहस्रकोटि युगधारिणेनमः ।।
चन्दनस्य मह त्पुण्यं पवित्रं पापनाशनम् ।
आपदा हरते नित्यं लक्ष्मी तिष्ठति सर्वदा ।।
————
(10) * स्वस्ति वाचनम् *
हाथ में जल, पुष्प, अक्षत लेकर स्वस्ति वाचन बोला जाय। यह शुभ कार्यों की सफलता, शान्ति, सार्थकता एवं मंगलमय पूर्ति के समय कल्याण कारक मन्त्र है।
ॐ गणानांत्वा गणपति हवामहे प्रियाणांत्वा प्रियपति हवामहे निधीनांत्वा निधिपति हवामहे वसोमम । आहमजानिगर्भधमात्वमजासिगर्भधम् ।।1।।
ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः । स्वस्तिनस्ताक्र्ष्योऽअतरिष्ट नेमिः स्वस्तिनो वृहस्पतिर्दधातु ।।2।।
ॐ पयः पृथिव्यां पयऽओषधीषु पयोदिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ।।3।।
ॐ विष्णोः राटमसि विष्णोः श्नप्त्रेस्थोः विष्णोः स्पूरसि विष्णोर्ध्रुंवोऽसि । वैष्णवमसि विष्णवेत्वा ।।4।।
ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽदित्या देवता मरूतो देवता विश्वदेवा देवता वृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ।।5।।
ॐ द्यौः शान्ति अन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्ति । वनस्पतयः शान्तिविश्वेदेवाः शान्तिर्व्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि ।।6।।
ॐ विश्वानिदेव सवितर्दुरितानि परासुव । यद्भद्रं तन्न आसुव ।।7।।
ॐ शान्ति ! शान्ति !! शान्ति !!!
सर्वारिष्ट शान्तिर्भवतु ।।